श्री हनुमत्स्तोत्रम् / Shri Hanumatstotram
श्री हनुमत्स्तोत्रम् ***** श्री गणपतये नमः । नमो हनुमते तुभ्यं नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ।।१।। नमो वानरवीराय सुग्रीवसख्यकारिणे। लंकाविदाहनार्थाय हेलासागरतारिणे ।। सीताशोकविनाशाय राममुद्राधराय च। रावणान्तकुलच्छेद-कारिणे ते नमो नमः ।।२।। मेघनादमखध्वंस-कारिणे ते नमो नमः ।।३।। अशोकवनविध्वंस-कारिणे भयहारिणे ।।४।। वायुपुत्राय-वीराय आकाशोदरगामिने । वनपालशिरश्छेद-लंका-प्रासाद भञ्जिने ।। ५ ।। ज्वलत्कनकवर्णाय दीर्घलांगूल-धारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ।।६।। अक्षस्य वधक र्त्रे च ब्रह्मपाशनिवारिणे। लक्ष्मणांग-महाशक्ति-घातक्षत-विनाशिने।।७।। रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः । ऋक्षवानरवीरौघ-प्राणदाय नमो नमः ।।८।। परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः। विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः । । ९ ।। महाभयरिपुघ्नाय भक्तत्राणैककारिणे। परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ।।१०।। पयः...